This page has been fully proofread once and needs a second look.

<page>
<ignore>
३०
 
</ignore>
<ignore>
विष्णुपादादिकेशान्तस्तोत्रम् ।
 
</ignore>
<verse>
हारस्योरुप्रभाभिः प्रतिनववनमालांशुभिः प्रांशुरूपैः
 

श्रीभिश्चाप्यङ्गदानां कबलितरुचि यन्निष्कभाभिश्च भाति ।

बाहुल्येनैव बद्धाञ्जलिपुटमजितस्याभियाचामहे त-
धर्ति

द्बन्धार्तिं
बाधतां नो बहुविहतिकरीं बन्धुरं बाहुमूलम् ॥
 
</verse>
<verse>
विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः
 

कर्तारो दुर्निरूपस्फुटगुणयशसां कर्मणामद्भुतानाम् ।

शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रं

बिभ्राणाः शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिम् ॥
 
</verse>
<verse>
कण्ठाकल्पोद्गतैर्यः कनकमयलसत्कुण्डलोत्थै रुदारै-

रुद्योतै:तैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णो विभाति ।

कण्ठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्ररूपे

वैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुण्ठभावं विहाय ॥
 
</verse>
<verse>
पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभागः
 

काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीणः ।

वक्त्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभां

श्रीभर्तुर्दन्तवासोद्युमणिरघत मोनाशनायास्त्वसौ नः ॥
 
</verse>
</page>