2026-02-28 06:50:33 by ambuda-bot
This page has not been fully proofread.
३०
विष्णुपादादिकेशान्तस्तोत्रम् ।
हारस्योरुप्रभाभिः प्रतिनववनमालांशुभिः प्रांशुरूपैः
श्रीभिश्चाप्यङ्गदानां कबलितरुचि यन्निष्कभाभिश्च भाति ।
बाहुल्येनैव बद्धाञ्जलिपुटमजितस्याभियाचामहे त-
धर्ति बाधतां नो बहुविहतिकरीं बन्धुरं बाहुमूलम् ॥
विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः
कर्तारो दुर्निरूपस्फुटगुणयशसां कर्मणामद्भुतानाम् ।
शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रं
बिभ्राणाः शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिम् ॥
कण्ठाकल्पोद्गतैर्यः कनकमयलसत्कुण्डलोत्थै रुदारै-
रुद्योतै: कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णो विभाति ।
कण्ठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्ररूपे
वैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुण्ठभावं विहाय ॥
पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभागः
काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीणः ।
वक्त्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभां
श्रीभर्तुर्दन्तवासोद्युमणिरघत मोनाशनायास्त्वसौ नः ॥