This page has been fully proofread once and needs a second look.

<page>
<ignore>
विष्णुपादादिकेशान्तस्तोत्रम् ।
 
</ignore>
<ignore>
२९
 
</ignore>
<verse>
संस्तीर्णं कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं

श्रीवत्सोल्लासि फुल्लप्रतिनववनमालाङ्कि राजद्भुजान्तम् ।

वक्षः श्रीवृक्षकान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणे:
णेः
संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥
 
</verse>
<verse>
कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो-

रिन्दोर्बिम्बं यथाङ्को मधुप इव तरोर्मञ्जरीं राजते यः ।

श्रीमान्नित्यं विधेयादविरलमिलित:तः कौस्तुभश्रीप्रतानैः
 

श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः ॥
 
</verse>
<p>
संभूयाम्भोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते

नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये ।

आशाः सर्वाः प्रकाशा विदधदपिदधञ्च्चात्मभासान्यतेजां-

स्याश्चर्यस्याकरो नो द्युमणिरिव मणि:णिः कौस्तुभः सोऽस्तु भूत्यै ।
 
</p>
<verse>
या वायावानुकूल्यात्सरति मणिरुचा भासमाना समाना

साकं साकम्पमंसे वसति विदधती वासुभद्रं सुभद्रम् ।

सारं सारङ्गसंघैर्मुखरितकुसुमा मेचकान्ता च कान्ता
 

माला मालालितास्मान्न विरमतु सुखैर्योजयन्ती जयन्ती ॥
 
</verse>
</page>