This page has not been fully proofread.

विष्णुपादादिकेशान्तस्तोत्रम् ।
 
२९
 
संस्तीर्ण कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं
श्रीवत्सोल्लासि फुल्लप्रतिनववनमालाङ्कि राजद्भुजान्तम् ।
वक्षः श्रीवृक्षकान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणे:
संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥
 
कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो-
रिन्दोर्बिम्बं यथाको मधुप इव तरोर्मञ्जरीं राजते यः ।
श्रीमान्नित्यं विधेयादविरलमिलित: कौस्तुभश्रीप्रतानैः
 
श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः ॥
 
संभूयाम्भोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते
नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये ।
आशाः सर्वाः प्रकाशा विदधदपिदधञ्चात्मभासान्यतेजां-
स्याश्चर्यस्याकरो नो द्युमणिरिव मणि: कौस्तुभः सोऽस्तु भूत्यै ।
 
या वायावानुकूल्यात्सरति मणिरुचा भासमाना समाना
साकं साकम्पमंसे वसति विदधती वासुभद्रं सुभद्रम् ।
सारं सारङ्गसंघैर्मुखरितकुसुमा मेचकान्ता च कान्ता
 
माला मालालितास्मान्न विरमतु सुखैर्योजयन्ती जयन्ती ॥