This page has been fully proofread once and needs a second look.

<page>
<ignore>
२८
 
</ignore>
<ignore>
विष्णुपादादिकेशान्तस्तोत्रम् ।
 
</ignore>
<verse>
पातालं यस्य नालं वलयमपि दिशां पत्रपङ्कीक्तीर्नगेन्द्रा-

न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् ।

भूयाद्गायत्स्वयं भूमधुकर भवनं भूमयं कामदं नो
 

नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥
 
</verse>
<verse>
आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पै:
पैः
कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च ।

अत्यन्ताचिन्त्यमूर्तेश्चिरतरमजितस्यान्तरिक्ष स्वरूपे

तस्मिन्नस्माकमन्तःकरणमतिमुदा क्रीडतात्क्रोडभागे ॥
 
</verse>
<verse>
कान्त्यम्भःपूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गे
 

गम्भीराकारनाभीचतुरतरमहा वर्तशोभिन्युदारे ।

क्रीडत्वानद्धद्देहेमोदरन महाबाडवाग्निप्रभाढ्ये
 

कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ॥
 
</verse>
<verse>
नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां
 

माला नीलेव यान्ती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या ।

रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो-

श्चित्तस्था मा विरंसीच्चिरतरमुचितां साधयन्ती श्रीयं नः ॥
 
</verse>
</page>