2026-02-28 16:24:18 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२८
</ignore>
<ignore>विष्णुपादादिकेशान्तस्तोत्रम् ।
</ignore>
<verse>पातालं यस्य नालं वलयमपि दिशां पत्रपङ्कीक्तीर्नगेन्द्रा-
न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् ।
भूयाद्गायत्स्वयं भूमधुकर भवनं भूमयं कामदं नो
नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥
</verse>
<verse>आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पै:
पैः
कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च ।
अत्यन्ताचिन्त्यमूर्तेश्चिरतरमजितस्यान्तरिक्ष स्वरूपे
तस्मिन्नस्माकमन्तःकरणमतिमुदा क्रीडतात्क्रोडभागे ॥
</verse>
<verse>कान्त्यम्भःपूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गे
गम्भीराकारनाभीचतुरतरमहा वर्तशोभिन्युदारे ।
क्रीडत्वानद्धद्देहेमोदरनहन महाबाडवाग्निप्रभाढ्ये
कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ॥
</verse>
<verse>नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां
माला नीलेव यान्ती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या ।
रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो-
श्चित्तस्था मा विरंसीच्चिरतरमुचितां साधयन्ती श्रीयं नः ॥
</verse>
</page>
<ignore>२८
<ignore>विष्णुपादादिकेशान्तस्तोत्रम् ।
<verse>पातालं यस्य नालं वलयमपि दिशां पत्रपङ्
न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् ।
भूयाद्गायत्स्वयं
नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥
<verse>आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्
कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च ।
अत्यन्ताचिन्त्यमूर्तेश्चिरतरमजितस्यान्तरिक्ष
तस्मिन्नस्माकमन्तःकरणमतिमुदा क्रीडतात्क्रोडभागे ॥
<verse>कान्त्यम्भःपूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गे
गम्भीराकारनाभीचतुरतरमहा
क्रीडत्वानद्ध