2026-02-28 16:21:32 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>विष्णुपादादिकेशान्तस्तोत्रम् ।
</ignore>
<ignore>२७
</ignore>
<verse>देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं चा-
प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान ।
वृत्तावन्योन्यतुल्यौ चतुरमुपचयं विभ्रतावभ्रनीला-
वूरू चारू हरेस्तौ मुद्द्दमतिशयिनीं मानसे नो विधत्ताम् ॥
</verse>
<verse>पीतेन द्योतते यच्चतुरपरिहितेनाम्बरेणात्युदारं
जातालंकारयोगं जलमिव जलधेर्वाडबाग्निप्रभाभिः ।
एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं
सातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥ २१ ॥
</verse>
<verse>यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽङ्गं यथाब्धे-
र्मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः ।
काञ्ची सा काश्ञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता
कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥
</verse>
<verse>उन्नम्नं कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः
पूर्ववं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् ।
यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्धधा
ध्या
नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥
</verse>
</page>
<ignore>विष्णुपादादिकेशान्तस्तोत्रम् ।
<ignore>२७
<verse>देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं चा-
प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान ।
वृत्तावन्योन्यतुल्यौ चतुरमुपचयं विभ्रतावभ्रनीला-
वूरू चारू हरेस्तौ मु
<verse>पीतेन द्योतते यच्चतुरपरिहितेनाम्बरेणात्युदारं
जातालंकारयोगं जलमिव जलधेर्वाडबाग्निप्रभाभिः ।
एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं
सातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥ २१ ॥
<verse>यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽङ्गं यथाब्धे-
र्मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः ।
काञ्ची सा का
कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥
<verse>उन्नम्नं कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः
पूर्
यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्