This page has not been fully proofread.

विष्णुपादादिकेशान्तस्तोत्रम् ।
 
२७
 
देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं चा-
प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान ।
वृत्तावन्योन्यतुल्यौ चतुरमुपचयं विभ्रतावभ्रनीला-
वूरू चारू हरेस्तौ मुद्द्मतिशयिनीं मानसे नो विधत्ताम् ॥
 
पीतेन द्योतते यच्चतुरपरिहितेनाम्बरेणात्युदारं
जातालंकारयोगं जलमिव जलधेर्वाडबाग्निप्रभाभिः ।
एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं
सातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥ २१ ॥
 
यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽङ्गं यथाब्धे-
मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः ।
 
काञ्ची सा काश्ञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता
कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥
 
उन्न कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः
 
पूर्व गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् ।
यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्धधा
नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥