2026-02-28 07:57:08 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२६.
</ignore>
<ignore>विष्णुपादादि के शान्तस्तोत्रम् ।
</ignore>
<verse>यस्यां दृष्ट्वामलायां प्रतिकृतिममराः संभवन्त्यानमन्तः
सेन्द्राः सान्द्रीकृतेर्ष्यास्त्वपरसुरकुलाशङ्कयातङ्कवन्तः ।
सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्न-
श्चञ्चच्चार्ववंशुचक्रा चरणनलिन योश्चक्रपाणेर्नखाली !!
॥</verse>
<verse>पादाम्भोजन्मसेवासमवनतसुरत्व्रात भास्वत्किरीट-
प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चित्रितं यद्विभाति ।
नम्राङ्गानां हरेनोंर्नो हरिदुपलमहाकूर्मसौन्दर्य हारि-
च्छायं श्रेयः प्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम् ॥
</verse>
<verse>श्रीमत्यौ चारुवृत्ते करपरिमलनानन्दहृष्टे रमायाः
सौन्दर्याढ्येन्द्रनीलोपलरचित महादण्डयोः कान्तिचोरे ।
सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे
जङ्घे नारायणीये मुहुरपि जयतामस्मदंहो हरन्त्यौ ॥
</verse>
<verse>सम्यक्साह्यं विधातुं सममिव सततं जङ्घयोः खिन्नयोर्ये
भारी भूतोरुदण्डद्वयभरणकृतोत्तम्भभावं भजेते ।
चित्तादर्शशं निधातुं महितमिव सतां ते समुद्रायमाने
वृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥
</verse>
</page>
<ignore>२६.
<ignore>विष्णुपादादि
<verse>यस्यां दृष्ट्वामलायां प्रतिकृतिममराः संभवन्त्यानमन्तः
सेन्द्राः सान्द्रीकृतेर्ष्यास्त्वपरसुरकुलाशङ्कयातङ्कवन्तः ।
सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्न-
श्चञ्चच्चार्
<verse>पादाम्भोजन्मसेवासमवनतसुर
प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चित्रितं यद्विभाति ।
नम्राङ्गानां हरे
च्छायं श्रेयः
<verse>श्रीमत्यौ चारुवृत्ते करपरिमलनानन्दहृष्टे रमायाः
सौन्दर्याढ्येन्द्रनीलोपलरचित
सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे
जङ्घे नारायणीये मुहुरपि जयतामस्मदंहो हरन्त्यौ ॥
<verse>सम्यक्साह्यं विधातुं सममिव सततं जङ्घयोः खिन्नयोर्ये
भारी
चित्तादर्
वृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥
</page>