This page has been fully proofread once and needs a second look.

<page>
<ignore>
विष्णुपादादिकेशान्तस्तोत्रम् ।
 
</ignore>
<ignore>
२५
 
</ignore>
<verse>
यस्मादाक्रामतो द्यां गरुडमणिशिला केतुदण्डायमाना -

दाश्च्योतन्ती बभासे सुरसरिदमला वैजयन्तीव कान्ता ।

भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तम्भशोभां दधौ नः

पातामेतौ पयोजोदरललिततलौ पङ्कजाक्षस्य पादौ ॥
 
</verse>
<verse>
आक्रामद्भयां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ

याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम ।

ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्याश्ञ्चिताभ्यामुभाभ्यां

प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपङ्केरुहाभ्याम् ॥
 
</verse>
<verse>
येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां

साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् ।

प्राप्ता विश्वंभरा यैरतिवितततनोर्विश्वमूर्तेर्विराजो

विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोऽस्त्वङ्घ्रिपङ्केरुहेभ्यः ॥
 
</verse>
<verse>
विष्णोः पादद्वयाग्रे विमलनखमणिभ्राजिता राजते या

राजीवस्येव रम्या हिमजलकणिकालंकृताग्रा दलाली ।

अस्माकं विस्मयार्द्राहाण्यखिलजनमनः प्रार्थनीया हि सेयं

दद्यादाद्यानवद्या ततिरतिरुचिरा मङ्गलान्यङ्गुलीनाम्
 
</verse>
</page>