2026-02-28 06:50:32 by ambuda-bot
This page has not been fully proofread.
विष्णुपादादिकेशान्तस्तोत्रम् ।
२५
यस्मादाक्रामतो द्यां गरुडमणिशिला केतुदण्डायमाना -
दाश्च्योतन्ती बभासे सुरसरिदमला वैजयन्तीव कान्ता ।
भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तम्भशोभां दधौ नः
पातामेतौ पयोजोदरललिततलौ पङ्कजाक्षस्य पादौ ॥
आक्रामद्भयां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ
याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम ।
ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्याश्चिताभ्यामुभाभ्यां
प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपङ्केरुहाभ्याम् ॥
येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां
साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् ।
प्राप्ता विश्वंभरा यैरतिवितततनोर्विश्वमूर्तेर्विराजो
विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोऽस्त्वङ्घ्रिपङ्केरुहेभ्यः ॥
विष्णोः पादद्वया विमलनखमणिभ्राजिता राजते या
राजीवस्येव रम्या हिमजलकणिकालंकृताग्रा दलाली ।
अस्माकं विस्मयार्द्राण्यखिलजनमनः प्रार्थनीया हि सेयं
दद्यादाद्यानवद्या ततिरतिरुचिरा मङ्गलान्यङ्गुलीनाम ॥