2026-02-28 07:43:23 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>विष्णुपादादिकेशान्तिस्तोत्रम् ।
</ignore>
<ignore>२३
</ignore>
<verse>जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयन्ती
युद्धेपूषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः ।
सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुः शोणितास्वादतृप्नो
तो
नित्यानन्दाय भूयान्मधुमथनमनोनन्दनो नन्दको नः ॥
</verse>
<verse>कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता
सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् ।
राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा
कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥
</verse>
<verse>यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो
ग्रं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति ।
चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं
वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णणं सुपर्णम् ॥ ६ ॥
</verse>
<verse>विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्ता
सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः ।
पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहन्ता
सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥
</verse>
</page>
<ignore>विष्णुपादादिकेशान्तिस्तोत्रम् ।
<ignore>२३
<verse>जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयन्ती
युद्धे
सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुः
नित्यानन्दाय भूयान्मधुमथनमनोनन्दनो नन्दको नः ॥
<verse>कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता
सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् ।
राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा
कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥
<verse>यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो
ग्रं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति ।
चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं
वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्