This page has been fully proofread once and needs a second look.

<page>
<ignore>
विष्णुपादादिकेशान्तिस्तोत्रम् ।
 
</ignore>
<ignore>
२३
 
</ignore>
<verse>
जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयन्ती

युद्धेपूषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः ।

सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुः शोणितास्वादतृप्नो
तो
नित्यानन्दाय भूयान्मधुमथनमनोनन्दनो नन्दको नः ॥
 
</verse>
<verse>
कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता
 

सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् ।

राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा

कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥
 
</verse>
<verse>
यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो

ग्रं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति ।

चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं
 

वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णम् ॥ ६ ॥
 
</verse>
<verse>
विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्ता
 

सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः ।

पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहन्ता

सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥
 
</verse>
</page>