2026-02-28 06:50:31 by ambuda-bot
This page has not been fully proofread.
२०
श्रीविष्णुभुजंगप्रयातस्तोत्रम् ।
स्वभक्तेषु संदर्शिताकारमेवं
सदा भावयन्संनिरुद्धेन्द्रियाश्वः ।
दुरापं नरो याति संसारपारं
परस्मै परेभ्योऽपि तस्मै नमस्ते ॥ ८ ॥
श्रिया शातकुम्भद्युतिस्निग्धकान्त्या
धरण्या च दूर्वादलश्यामलाङ्गया ।
कलत्रद्वयेनामुना तोषिताय
त्रिलोकीगृहस्थाय विष्णो नमस्ते ॥ ९ ॥
शरीरं कलत्रं सुतं बन्धुवर्ग
वयस्यं धनं सद्म भृत्यं भुवं च ।
समस्तं परित्यज्य हा कष्टमेको
गमिष्यामि दुःखेन दूरं किलाहम् ॥ १० ॥
जरेयं पिशाचीव हा जीवतो मे
स
वसामन्ति रक्तं च मांसं बलं च ।
अहो देव सीदामि दीनानुकम्पि-
किमद्यापि इन्त त्वयोदासितव्यम् ॥ ११ ॥
श्रीविष्णुभुजंगप्रयातस्तोत्रम् ।
स्वभक्तेषु संदर्शिताकारमेवं
सदा भावयन्संनिरुद्धेन्द्रियाश्वः ।
दुरापं नरो याति संसारपारं
परस्मै परेभ्योऽपि तस्मै नमस्ते ॥ ८ ॥
श्रिया शातकुम्भद्युतिस्निग्धकान्त्या
धरण्या च दूर्वादलश्यामलाङ्गया ।
कलत्रद्वयेनामुना तोषिताय
त्रिलोकीगृहस्थाय विष्णो नमस्ते ॥ ९ ॥
शरीरं कलत्रं सुतं बन्धुवर्ग
वयस्यं धनं सद्म भृत्यं भुवं च ।
समस्तं परित्यज्य हा कष्टमेको
गमिष्यामि दुःखेन दूरं किलाहम् ॥ १० ॥
जरेयं पिशाचीव हा जीवतो मे
स
वसामन्ति रक्तं च मांसं बलं च ।
अहो देव सीदामि दीनानुकम्पि-
किमद्यापि इन्त त्वयोदासितव्यम् ॥ ११ ॥