2026-02-28 06:50:31 by ambuda-bot
This page has not been fully proofread.
11 eft: 11
॥ श्रीविष्णुभुजंगप्रयातस्तोत्रम् ॥
चिदशं विभुं निर्मलं निर्विकल्पं
निरीहं निराकारमोंकारगम्यम् ।
गुणातीतमव्यक्तमेकं तुरीयं
परं ब्रह्म यं वेद तस्मै नमस्ते ॥ १ ॥
विशुद्धं शिवं शान्तमाद्यन्तशून्यं
जगज्जीवनं ज्योतिरानन्दरूपम् ।
अदिग्देशकालव्यवच्छेदनीयं
त्रयी वक्ति यं वेद तस्मै नमस्तै ॥ २ ॥
महायोगपीठे परिभ्राजमाने
धरण्यादितत्त्वात्मके शक्तियुक्ते ।
गुणास्करे वह्निबिम्बार्धमध्ये
समासीनमों कर्णिकेऽष्टाक्षराब्जे ॥ ३ ॥
॥ श्रीविष्णुभुजंगप्रयातस्तोत्रम् ॥
चिदशं विभुं निर्मलं निर्विकल्पं
निरीहं निराकारमोंकारगम्यम् ।
गुणातीतमव्यक्तमेकं तुरीयं
परं ब्रह्म यं वेद तस्मै नमस्ते ॥ १ ॥
विशुद्धं शिवं शान्तमाद्यन्तशून्यं
जगज्जीवनं ज्योतिरानन्दरूपम् ।
अदिग्देशकालव्यवच्छेदनीयं
त्रयी वक्ति यं वेद तस्मै नमस्तै ॥ २ ॥
महायोगपीठे परिभ्राजमाने
धरण्यादितत्त्वात्मके शक्तियुक्ते ।
गुणास्करे वह्निबिम्बार्धमध्ये
समासीनमों कर्णिकेऽष्टाक्षराब्जे ॥ ३ ॥