2026-02-28 06:50:30 by ambuda-bot
This page has not been fully proofread.
लक्ष्मीनृसिंहकरुणारसस्तोत्रम् ।
संसारवृक्षमघबीजमनन्तकर्म-
शाखायुतं करणपत्रमनङ्गपुष्पम् ।
आरुह्य दु:खफलितं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥
संसारसागरविशालकरालकाल-
नक्र ग्रह ग्रसितनिग्रहविग्रहस्य ।
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९ ॥
संसारसागरनिमज्जनमुह्यमानं
दीनं विलोकय विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहारपरावतार
१५
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १० ॥
संसारघोरगहने चरतो मुरारे
मारोप्रभीकरमृगप्रचुरार्दितस्य ।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११ ॥
संसारवृक्षमघबीजमनन्तकर्म-
शाखायुतं करणपत्रमनङ्गपुष्पम् ।
आरुह्य दु:खफलितं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥
संसारसागरविशालकरालकाल-
नक्र ग्रह ग्रसितनिग्रहविग्रहस्य ।
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९ ॥
संसारसागरनिमज्जनमुह्यमानं
दीनं विलोकय विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहारपरावतार
१५
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १० ॥
संसारघोरगहने चरतो मुरारे
मारोप्रभीकरमृगप्रचुरार्दितस्य ।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११ ॥