2026-02-28 06:50:30 by ambuda-bot
This page has not been fully proofread.
१२
लक्ष्मीनृसिंहपञ्चरत्नम् ।
स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे
गन्धफलीसदृशा ननु तेऽमी भोगानन्तरदुःखकृतः स्युः ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥४॥
तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं
स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति ।

भज भज लक्ष्मीनरसिंहानघपद सरसिजमकरन्दम् ॥५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
लक्ष्मीनृसिंहपश्वरत्नं संपूर्णम् ॥