2026-02-28 07:17:16 by akprasad
This page has been fully proofread once and needs a second look.
<subtitle>॥ श्रीः ॥</subtitle>
<title>॥ लक्ष्मीनृसिंहपञ्चरत्नम् ॥
*
<verse>त्वत्प्रभुजीवप्रियमिच्छसि चेन्नररिपूजां कुरु सततं
प्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥
<verse>शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चे-
द्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥
<verse>आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः
गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेऽस्मिन् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३ ॥
</page>