2026-02-28 06:50:30 by ambuda-bot
This page has not been fully proofread.
॥ eft: ॥
॥ लक्ष्मीनृसिंहपञ्चरत्नम् ॥
*
त्वत्प्रभुजीवप्रियमिच्छसि चेन्नररिपूजां कुरु सततं
प्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥
शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चे-
दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।

आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः
गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेऽस्मिन् ।

भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३ ॥