This page has not been fully proofread.

श्रीरामभुजङ्गप्रयाततोत्रम् ।
 
शिलापि त्वदङ्घ्रिक्षमासङ्गिरेणु-
प्रसादाद्धि चैतन्यमाधत्त राम ।
 
नरस्त्वत्पदद्वन्द्वसेवाविधाना-
 
॥ सुचैतन्यमेतीति किं चित्रमल ॥ १६ ॥
 
पवित्रं चरित्रं विचित्रं त्वदीयं
 
नरा ये स्मरन्त्यन्वहं रामचन्द्र ।
 
भवन्तं भवान्तं भरन्तं भजन्तो
 
लभन्ते कृतान्तं न पश्यन्त्यतोऽन्ते ॥ १७ ॥
 
स पुण्यः स गण्यः शरण्यो ममायं
 
नरो वेद यो देवचूडामणिं त्वाम् ।
 
सदाकारमेकं चिदानन्दरूपं
 
मनोवागगम्यं परं धाम राम ॥ १८ ॥
 
प्रचण्डप्रतापप्रभावाभिभूत-
 
प्रभूतारिवीर प्रभो रामचन्द्र ।
 
बलं ते कथं वर्ण्यतेऽतीव बाल्ये
 
यतोऽखण्डि चण्डीशकोदण्डदण्डम् ॥ १९ ॥