This page has been fully proofread once and needs a second look.

<page>
<ignore>

 
</ignore>
<ignore>
हनुमत्पञ्चरत्नम् ।
 
</ignore>
<verse>
दूरीकृतसीतार्ति:
 
तिः
प्रकटीकृतरामवैभवस्फूर्तिः ।
 

दारितदशमुखकीर्तिः
 

पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥
 
</verse>
<verse>
वानरनिकराध्यक्षं
 

दानवकुलकुमुदरविकरसदृक्षम् ।
 

दीनजनावनदीक्षं
 

पवनतपः पाकपुञ्जमद्राक्षम् ॥ ५ ॥
 
</verse>
<p>
एतत्पवनसुतस्य
 

स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।.
 

चिरमिह निखिलान्भोगा-
 

न्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति ॥ ६ ॥
 
</p>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
 

हनुमत्पञ्चरत्नं संपूर्णम् ॥
 
</trailer>
</page>