2026-03-03 05:17:05 by akprasad
This page has not been fully proofread.
<page>
<ignore>१६६
</ignore>
<ignore>ललितात्रिशतीभाष्यम् ।
</ignore>
<verse>तस्मादेकाग्रमनसा श्रोतव्यं च त्वया सदा ।
</verse>
<p>सूत उवाच --
-</p>
<verse>इत्युक्त्वा तं हयग्रीवः प्रोचे नामशतत्रयम् ॥
</verse>
<p>बहुकालं सुभक्तिमहिम्ना गुरुपादाम्बुजमवलम्ब्य स्थिताय
कुम्भयोनिमुनये शिवदंपतिकृतनामशतत्र योक्त्या प्रेरितो हय-
ग्रीव उवाच -
--</p>
<verse>ककाररूपा कल्याणी कल्याणगुणशालिनी ।
कल्याणशैलनिलया कमनीया कलावती ॥
</verse>
<p text="C" merge-next="true">ककाररूपेति । ककारः कवर्णः रूपं ज्ञापकविशेषणं
यस्याः सा, कादिविद्याविग्रहेत्यर्थः । अथवा ककारः रूपं
वाचकं येषां ते ककाररूपाः हिरण्यगर्भः उदकम् उत्तमाङ्गं
सुखादयश्च । हिरण्यगर्भनिष्ठजगद्धारकजगत्कर्तृत्वादिगुण-
वत्त्वं ककारस्य व्यञ्जनादिमवर्णत्वेन वर्तत इति तद्वाच्य-
तया तथा । उदकनिष्ठान्नादिद्वारा जगत्संजीवनहेतुत्वमपि
ककारस्य विद्याग्रिमवर्णतयास्तीति तद्रूपा वा
। सर्वेषां
प्राणिनां शिरस्यमृतमस्तीति योगमार्गेण कुण्डलिनीगमने
तत्रत्यतत्प्रवाहाप्लुतयोगिनामीश्वरसाम्यं जायत इति योगशा-
स्त्रेषु प्रसिद्धम् । तद्वत् कवर्णः मन्त्रादिमभागस्थः तत्पु-
</p>
</page>
<ignore>१६६
<ignore>ललितात्रिशतीभाष्यम् ।
<verse>तस्मादेकाग्रमनसा श्रोतव्यं च त्वया सदा ।
<p>सूत उवाच --
<verse>इत्युक्त्वा तं हयग्रीवः प्रोचे नामशतत्रयम् ॥
<p>बहुकालं सुभक्तिमहिम्ना गुरुपादाम्बुजमवलम्ब्य स्थिताय
कुम्भयोनिमुनये शिवदंपतिकृतनामशतत्र