2026-02-28 06:50:56 by ambuda-bot
This page has not been fully proofread.
ललितात्रिशतीभाष्यम् ।
१६५
सच्छिष्येण त्वया चाहं द्रष्टवानस्मितां शिवाम् ।
यतन्ते दर्शनार्थाय ब्रह्मविष्ण्वीशपूर्वकाः ॥
अतः परं ते वक्ष्यामि सर्वपूर्तिकरं स्तवम् ।
यस्य स्मरणमात्रेण पर्याप्तिस्ते भवेद्धृदि ॥ २२ ॥
रहस्यनामसाहस्रादपि गुह्यतमं मुने ।
आवश्यकं ततोऽप्येतल्ललितां समुपासितुम् ॥
तदहं संप्रवक्ष्यामि ललिताम्बानुशासनात् ।
श्रीमत्पञ्चदशाक्षर्याः कादिवर्णान्क्रमान्मुने ॥
पृथग्विंशतिनामानि कथितानि घटोद्भव ।
आहत्य नाम्नां त्रिशती सर्वसंपूर्तिकारिणी ॥
रहस्यातिरहस्यैषा गोपनीया प्रयत्नतः ।
तां श्रृणुष्व महाभाग सावधानेन चेतसा ॥
केवलं नामबुद्धिस्ते न कार्या तेषु कुम्भज ।
मन्त्रात्मकत्वमेतेषां नाम्नां नामात्मतापि च ॥