2026-02-28 06:50:56 by ambuda-bot
This page has not been fully proofread.
१६४
ललितात्रिशतीभाष्यम् ।
तद्ब्रूहि त्वमगस्त्याय पात्रमेव न संशयः ॥ १४॥
पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः ।
अयं च नितरां भक्तस्तस्मादस्य वदस्व तत् ॥
अमुञ्चमानस्त्वत्पादौ वर्षत्रयमसौ स्थितः ।
एतज्ज्ञातुमतो भक्त्या हीदमेव निदर्शनम् ॥
चित्तपर्याप्तिरेतस्य नान्यथा संभविष्यति ।
सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद् ॥ १७ ॥
सूत उवाच-
इत्युक्त्वान्तरधादम्बा कामेश्वरसमन्विता ।
अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसंभवम् ॥
संस्थाप्य निकटे वाचमुवाच भृशविस्मितः ।
हयग्रीव उवाच -
कृतार्थोऽसि कृतार्थोऽसि कृतार्थोऽसि घटोद्भव ॥
त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्रये ।
येनागस्त्य स्वयं देवी तव वक्तव्यमन्वशात् ॥