This page has been fully proofread once and needs a second look.

<page>
<ignore>
ललितात्रिशतीभाष्यम् ।
 
</ignore>
<ignore>
१६३
 
</ignore>
<p>
प्रणम्य विप्रं स मुनिस्तत्पादावत्यजन्स्थितः ॥ ७ ॥
 
</p>
<verse>
वर्षत्रयावधि तथा गुरुशिष्यौ तथा स्थितौ ।

तच्छृण्वन्तश्च पश्यन्तः सर्वे लोकाः सुविस्मिताः
 
॥</verse>
<verse>
ततः श्रीललितादेवी कामेश्वरसमन्विता ।

प्रादुर्भूय हयग्रीवं रहस्येवमचोदयत् ॥ ९ ॥
 
</verse>
<p>
श्रीदेव्युवाच-
 
--</p>
<verse>
अश्वाननावयोः प्रीतिः शास्त्रविश्वासिनि त्वयि ।

राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥ १० ॥
 
</verse>
<verse>
स्वमातृजारवद्गोप्या विद्यैषेत्यागमा जगुः ।

ततोऽतिगोपनीया मे सर्वपूर्तिकरी स्तुतिः ॥
 
</verse>
<verse>
मया कामेश्वरेणापि कृता संगोपिता भृशम् ।

मदाज्ञया वचो देव्यश्चक्रुर्नामसहस्रकम् ॥ १२॥
</verse>
<verse>
आवाभ्यां कथिता मुख्या सर्वपूर्तिकरी स्तुतिः ।

सर्वक्रियाणां वैकल्यपूर्तिर्यज्जपतो भवेत् ॥ १३ ॥
</verse>
<verse merge-next="true">
सर्वपूर्तिकरं तस्मादिदं नाम कृतं मया ।
 
</verse>
</page>