This page has been fully proofread once and needs a second look.

<page>
<ignore>
१६२
 
</ignore>
<ignore>
ललितात्रिशतीभाष्यम् ।
 
</ignore>
<p>
अगस्त्य उवाच -
 
--</p>
<verse>
हयग्रीव दयासिन्धो भगवन् शिष्यवत्सल ।

त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत् ॥
 
</verse>
<verse>
रहस्यनामसाहस्रमपि त्वत्तः श्रुतं मया ।

इतः परं मे नास्त्येव श्रोतव्यमिति निश्चयः ॥
</verse>
<verse>
तथापि मम चित्तस्य पर्याप्तिर्नैव जायते ।

कात्स्र्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥
 
</verse>
<verse>
किमिदं कारणं ब्रूहि ज्ञातत्र्व्यांशोऽस्ति वा पुनः ।

अस्ति चेन्मम तद्रूहि ब्रूहीत्युक्त्वा प्रणम्य तम् ॥
 
</verse>
<p>
सूत उवाच -
 
--</p>
<verse>
समाललम्बे तत्पादयुगलं कलशोद्भवः ।

हयाननो भीतभीतः किमिदं किमिदं त्विति ॥
 
</verse>
<verse>
मुञ्च मुञ्चेति तं चोक्त्वा चिन्ताक्रान्तो बभूव सः ।

चिरं विचार्य निश्चिन्वन्वक्तव्यं न मयेत्यसौ
 
॥</verse>
<verse merge-next="true">
तूष्णीं स्थितः स्मरन्नाज्ञां ललिताम्बाकृतां पुरा ।
 
</verse>
</page>