2026-02-28 06:50:55 by ambuda-bot
This page has not been fully proofread.
१६२
ललितात्रिशतीभाष्यम् ।
अगस्त्य उवाच -
हयग्रीव दयासिन्धो भगवन् शिष्यवत्सल ।
त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत् ॥
रहस्यनामसाहस्रमपि त्वत्तः श्रुतं मया ।
इतः परं मे नास्त्येव श्रोतव्यमिति निश्चयः ॥
तथापि मम चित्तस्य पर्याप्तिर्नैव जायते ।
कात्स्र्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥
किमिदं कारणं ब्रूहि ज्ञातत्र्यांशोऽस्ति वा पुनः ।
अस्ति चेन्मम तद्रूहि ब्रूहीत्युक्त्वा प्रणम्य तम् ॥
सूत उवाच -
समाललम्बे तत्पादयुगलं कलशोद्भवः ।
हयाननो भीतभीतः किमिदं किमिदं त्विति ॥
मुञ्च मुञ्चेति तं चोक्त्वा चिन्ताक्रान्तो बभूव सः ।
चिरं विचार्य निश्चिन्वन्वक्तव्यं न मयेत्यसौ ।
तूष्णीं स्थितः स्मरन्नाज्ञां ललिताम्बाकृतां पुरा ।