2026-03-03 05:07:23 by akprasad
This page has been fully proofread once and needs a second look.
<subtitle>॥ श्रीः॥</subtitle>
<title>॥ ललितात्रिशती
<verse>वन्दे विघ्नेश्वरं देवं सर्वसिद्धिप्रदायिनम् ।
वामाङ्कारूढवामाक्षीकरपल्लवपूजितम् ॥ १ ॥
<verse>पाशाङ्कुशेक्षुसुमराजितपञ्चशा
पाटल्यशालिसुषुमाञ्चितगालवल्लीम् ।
प्राचीनवाक्स्तुतपदां परदेवतां त्वां
पञ्चायुधार्चितपदां प्रणमामि देवीम् ॥ २ ॥
<verse>लोपामुद्रापतिं नत्वा हयग्रीवमपीश्वरम् ।
श्रीविद्याराजसंसिद्धिकारिपंकजवीक्षणम् ॥ ३ ॥
<verse>विस्तारितां बहुविधां बहुभिः कृतां च
टीकां विलोकयितुमक्षमतां जनानाम् ।
तत्रत्यसर्वपदयोगविवेकभानुं
तुष्
<ignore>S. U. VII. 11
</page>