This page has not been fully proofread.

॥ eft: 11
 
॥ ललितात्रिशती भाष्यम् ॥
 
वन्दे विघ्नेश्वरं देवं सर्वसिद्धिप्रदायिनम् ।
वामाङ्कारूढवामाक्षीकरपल्लवपूजितम् ॥ १ ॥
 
पाशाङ्कुशेक्षुसुमराजितपञ्चशास्त्रां
 
पाटल्यशालिसुषुमाञ्चितगालवल्लीम् ।
प्राचीनवाक्स्तुतपदां परदेवतां त्वां
 
पञ्चायुधार्चितपदां प्रणमामि देवीम् ॥ २ ॥
 
लोपामुद्रापतिं नत्वा हयग्रीवमपीश्वरम् ।
श्रीविद्याराजसंसिद्धिकारिपंकजवीक्षणम् ॥ ३ ॥
 
विस्तारितां बहुविधां बहुभिः कृतां च
टीकां विलोकयितुमक्षमतां जनानाम् ।
तत्रत्यसर्वपदयोगविवेकभानुं
 
तुष्ट करोमि ललितापदभक्तियोगात् ॥ ४ ॥
 
S. U. VII. 11