2026-02-28 06:50:52 by ambuda-bot
This page has not been fully proofread.
१४४
काशीपञ्चकम् ।
काश्यां हि काशते काशी
काशी सर्वप्रकाशिका ।
सा काशी विदिता येन
तेन प्राप्ता हि काशिका ॥ ४ ॥
काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगङ्गा
भक्ति: श्रद्धा गयेयं निजगुरुचरणध्यानयोगः प्रयागः ।
विश्वेशोऽयं तुरीयं सकलजनमनः साक्षिभूतोऽन्तरात्मा
देहे सर्वे मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
काशीपञ्चकं संपूर्णम् ॥