This page has not been fully proofread.

१३६
 
अर्धनारीश्वरस्तोत्रम् ।
 
प्रदीप्तरत्नोज्ज्वलकुण्डलायै
 
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय
 
नमः शिवायै च नमः शिवाय ॥ ८ ॥
 
एतत्पठेदष्ठकमिष्टदं यो
 
भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनन्तकालं
 
भूयात्सदा तस्य समस्तसिद्धिः ॥ ९ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
अर्धनारीश्वरस्तोत्रम् संपूर्णम् ॥
 
*