This page has not been fully proofread.

१३२
 
द्वादशलिङ्गस्तोत्रम् ।
 
यो डाकिनीशाकिनिकासमाजे
निषेव्यमाणः पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं
 
तं शंकरं भक्तहितं नमामि ॥ ८ ॥
 
श्री ताम्रपर्णीजलराशियोगे
 
निबद्ध सेतुं निशि बिल्वपत्रैः ।
श्रीरामचन्द्रेण समर्चितं तं
 
रामेश्वराख्यं सततं नमामि ॥ ९ ॥
 
सिंहाद्रिपार्श्वेऽपि तटे रमन्तं
 
गोदावरीतीरपवित्रदेशे ।
 
यद्दर्शनात्पातकजातनाश:
 
प्रजायते त्र्यम्बकमीशमीडे ॥ १० ॥
 
हिमाद्रिपार्श्वेऽपि तटे रमन्तं
 
संपूज्यमानं सततं मुनीन्द्रैः ।
 
सुरासुरैर्यक्षमहोरगाद्यैः
 
केदारसंज्ञं शिवमीशमीडे ॥ ११ ॥