2026-02-28 20:51:01 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>द्वादशलिङ्गस्तोत्रम् ।
</ignore>
<verse>कावेरिकानर्मदयोः पवित्रे
समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्त-
मोंकारमीशं शिवमेकमीढे ॥ ४ ॥
</verse>
<verse>पूर्वोत्तरे पारलिकाभिधाने
सदाशिवं तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं -
श्रीवैद्यनाथं सततं नमामि ॥ ५ ॥
</verse>
<verse>आमर्दसंज्ञे नगरे च रम्ये
विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भुक्तिमुक्तिप्रदमीशमेकं
श्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥
</verse>
<verse>सानन्दमानन्दवने वसन्त-
मानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं :
श्रीविश्वनाथं शरणं प्रपद्ये ॥ ७ ॥
</verse>
<ignore>१३१
</ignore>
</page>
<ignore>द्वादशलिङ्गस्तोत्रम् ।
<verse>कावेरिकानर्मदयोः पवित्रे
समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्त-
मोंकारमीशं शिवमेकमीढे ॥ ४ ॥
<verse>पूर्वोत्तरे पारलिकाभिधाने
सदाशिवं तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं
श्रीवैद्यनाथं सततं नमामि ॥ ५ ॥
<verse>आमर्दसंज्ञे नगरे च रम्ये
विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भुक्तिमुक्तिप्रदमीशमेकं
श्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥
<verse>सानन्दमानन्दवने वसन्त-
मानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं शरणं प्रपद्ये ॥ ७ ॥
<ignore>१३१
</page>