This page has not been fully proofread.

द्वादशलिङ्गस्तोत्रम् ।
 
कावेरिकानर्मदयोः पवित्रे
 
समागमे सज्जनतारणाय ।
 
सदैव मान्धातृपुरे वसन्त-
 
मोंकारमीशं शिवमेकमीढे ॥ ४ ॥
 
पूर्वोत्तरे पारलिकाभिधाने
 
सदाशिवं तं गिरिजासमेतम् ।
 
सुरासुराराधितपादपद्मं -
 
श्रीवैद्यनाथं सततं नमामि ॥ ५ ॥
 
आमर्दसंज्ञे नगरे च रम्ये
 
विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भुक्तिमुक्तिप्रदमीशमेकं
 
श्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥
 
सानन्दमानन्दवने वसन्त-
 
मानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं :
 
श्रीविश्वनाथं शरणं प्रपद्ये ॥ ७ ॥
 
१३१