This page has not been fully proofread.

॥ श्रीः ॥
 
॥ द्वादशलिङ्गस्तोत्रम् ।
 
***<>-
 
सौराष्ट्रदेशे वसुधावकाशे
 
ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृतावतारं
 
तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥
 
श्रीशैलशृङ्गे विविधप्रसङ्गे
 
शेषाद्रिशृङ्गेऽपि सदा वसन्तम् ।
 
तमर्जुनं मल्लिक पूर्वमेनं
 
नमामि संसारसमुद्रसेंतुम् ॥ २ ॥
 
अवन्तिकायां विहितावतारं
 
मुक्तिप्रदानाय च सज्जनानाम् ।
 
अकालमृत्योः परिरक्षणार्थ
 
वन्दे महाकालमहं सुरेशम् ॥ ३ ॥