This page has not been fully proofread.

१२८
 
शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् i
 
सेवकाय मे मृड प्रसीद ते नमः शिवाय
 
भावलभ्य तावकप्रसाद ते नमः शिवाय ।
 
पावकाक्ष देवपूज्यपाद ते नमः शिवाय
 
तावकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय ॥ २४ ॥
 
भुक्तिमुक्तिदिव्य भोगदायिने नमः शिवाय
 
शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय ।
 
भक्तसंकटापहारयोगिने नमः शिवाय
 
..युक्तसन्मन: सरोजयोगिने नमः शिवाय ॥ २५ ॥
 
अन्तकान्तकाय पापहारिणे नमः शिवाय
 
शान्तमायदन्तिचर्मधारिणे नमः शिवाय ।
 
संतताश्रितव्यथाविदारिणे नमः शिवाय
जन्तुजातनित्यसौख्यकारिणे नमः शिवाय ॥ २६ ॥
 
शूलिने नमो नमः कपालिने नमः शिवाय
 
पालिने विरिञ्चितुण्डमालिने नमः शिवाय ।
 
लीलिने विशेषरुण्डमालिने नमः शिवाय
 
शीलिने नमः प्रपुण्यशालिने नमः शिवाय ॥ २७॥