This page has not been fully proofread.

१२६
 
शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् ।
 
पाहि मामुमामनोज्ञदेह ते नमः शिवाय
 
देहि मे वरं सिताद्रिगेह ते नमः शिवाय ।
मोहितर्षिकामिनीसमूह ते नमः शिवाय
 
स्वेहितप्रसन्न कामदोह ते नमः शिवाय ॥ १६ ॥
 
मङ्गलप्रदाय गोतुरंग ते नमः शिवाय
 
गङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय ।
सङ्गरप्रवृत्तवैरिभङ्ग ते नमः शिवाय
 
अङ्गजारये करेकुरङ्ग ते नमः शिवाय ॥ १७ ॥
 
ईहितक्षणप्रदानहेतवे नमः शिवाय
 
आहिताग्निपालकोक्षकेतवे नमः शिवाय ।
देहकान्तिधूत रौप्यधातवे नमः शिवाय
गेहदुःखपुखधूमकेतवे नमः शिवाय ॥ १८ ॥
 
त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय
दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय ।
ऋक्षराजभानुपावकाक्ष ते नमः शिवाय
 
रक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय ॥ १९ ॥