2026-02-28 06:50:49 by ambuda-bot
This page has not been fully proofread.
शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् ।
१२५
दीनमानवालिकामधेनवे नमः शिवाय
सूनबाणदाहकृत्कृशानवे नमः शिवाय ।
स्वानुरागभक्तरत्नसानवे नमः शिवाय.
दानवान्धकारचण्डभानवे नमः शिवाय ॥ १२ ॥
सर्वमङ्गलाकुचाप्रशायिने नमः शिवाय :
सर्वदेवतागणातिशायिने नमः शिवाय
पूर्वदेवनाशसंविधायिने नमः शिवाय
सर्वमन्मनोजभङ्गदायिने नमः शिवाय ॥ १३ ॥
स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय
माकरन्दसारवर्षिभाषिणे नमः शिवाय ।
एकबिल्वदानतोऽपि तोषिणे नमः शिवाय
नैकजन्मपापजालशोषिणे नमः शिवाय ॥ १४ ॥
सर्व जीवरक्षणैकशीलिने नमः शिवाय
पार्वतीप्रियाय भक्तपालिने नमः शिवाय ।
दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय
शर्वरीशधारिणे कपालिने नमः शिवाय ॥ १५ ॥
१२५
दीनमानवालिकामधेनवे नमः शिवाय
सूनबाणदाहकृत्कृशानवे नमः शिवाय ।
स्वानुरागभक्तरत्नसानवे नमः शिवाय.
दानवान्धकारचण्डभानवे नमः शिवाय ॥ १२ ॥
सर्वमङ्गलाकुचाप्रशायिने नमः शिवाय :
सर्वदेवतागणातिशायिने नमः शिवाय
पूर्वदेवनाशसंविधायिने नमः शिवाय
सर्वमन्मनोजभङ्गदायिने नमः शिवाय ॥ १३ ॥
स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय
माकरन्दसारवर्षिभाषिणे नमः शिवाय ।
एकबिल्वदानतोऽपि तोषिणे नमः शिवाय
नैकजन्मपापजालशोषिणे नमः शिवाय ॥ १४ ॥
सर्व जीवरक्षणैकशीलिने नमः शिवाय
पार्वतीप्रियाय भक्तपालिने नमः शिवाय ।
दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय
शर्वरीशधारिणे कपालिने नमः शिवाय ॥ १५ ॥