This page has not been fully proofread.

१२४
 
शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् ।
 
जन्ममृत्युघोरदुःखहारिणे नमः शिवाय
 
चिन्मयैकरूपदेहधारिणे नमः शिवाय ।
 
मन्मनोरथावपूर्तिकारिणे नमः शिवाय
 
सन्मनोगताय कामवैरिणे नमः शिवाय ॥ ८ ॥
 
यक्षराजबन्धवे दयालवे नमः शिवाय
 
दक्षपाणिशोभिकाभ्वनालवे नमः शिवाय ।
 
पक्षिराजवाहहृच्छयालवे नमः शिवाय
 
अक्षिफाल वेदपूततालवे नमः शिवाय ॥। ९ ॥
 
दक्षहस्तनिष्ठजातवेदसे नमः शिवाय
 
अक्षरात्मने नमद्विडौजसे नमः शिवाय ।
 
दीक्षितप्रकाशितात्मतेजसे नमः शिवाय
 
उक्षराजवाह ते सतां गते नमः शिवाय ॥ १० ॥
 
राजताचलेन्द्रसानुवासिने नमः शिवाय
 
राजमाननित्यमन्दहासिने नमः शिवाय ।
 
राजकोरकावतंसभासिने नमः शिवाय
 
राजराजमित्रताप्रकाशिने नमः शिवाय ॥ ११ ॥