This page has not been fully proofread.

भ्रमराम्बाष्टकम् ।
 
१२१:
 
कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां
 
कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् ।
कामाक्षी करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८ ॥
 
गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां
 
गम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् ।
गङ्गागौतमगर्गसंनुतपदां गां गौतमी गोमतीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
भ्रमराम्बाष्टकं संपूर्णम् ॥