2026-02-28 20:26:52 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१२०
</ignore>
<ignore>भ्रमराम्बाष्टकम् ।
</ignore>
<verse>षट्तारां गणदीपिकां शिवसततीं षडैड्वैरिवर्गापहां
षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४ ॥
</verse>
<verse>श्रीनाथादृतपालितत्रिभुवनां श्रीचक्रसंचारिणीं
ज्ञानासक्तमनोजयौवनलसद्गन्धर्व कन्यादृताम् ।
दीनानामतिवेलभाग्यजननीं दिव्याम्बरालंकृतां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५ ॥
</verse>
<verse>लावण्याधिक भूषिताङ्गलतिकां लाक्षालसद्रागिणीं
सेवायात समस्तदेववनितां सीमन्तभूषान्विताम् ।
भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६ ॥
</verse>
<verse>धन्यां सोमविभावनीयचरितां धाराधरश्यामलां
मुन्याराधनमेधिनीं सुमवतां मुक्तिप्रदानत्व्रताम् ।
कन्यापूजन सुप्रसन्नहृदयां काथ्वीञ्चीलसन्मध्यमां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७ ॥
</verse>
</page>
<ignore>१२०
<ignore>भ्रमराम्बाष्टकम् ।
<verse>षट्तारां गणदीपिकां शिवस
षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४ ॥
<verse>श्रीनाथादृतपालितत्रिभुवनां श्रीचक्रसंचारिणीं
ज्ञानासक्तमनोजयौवनलसद्गन्धर्व
दीनानामतिवेलभाग्यजननीं दिव्याम्बरालंकृतां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५ ॥
<verse>लावण्याधिक
सेवायात
भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६ ॥
<verse>धन्यां सोमविभावनीयचरितां धाराधरश्यामलां
मुन्याराधनमेधिनीं सुमवतां मुक्तिप्रदान
कन्यापूजन
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७ ॥
</page>