This page has not been fully proofread.

१२०
 
भ्रमराम्बाष्टकम् ।
 
षट्तारांगणदीपिकां शिवसत षडैरिवर्गापहां
 
षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४ ॥
 
श्रीनाथादृतपालितत्रिभुवनां श्रीचक्रसंचारिणीं
 
ज्ञानासक्तमनोजयौवनलसद्गन्धर्व कन्यादृताम् ।
दीनानामतिवेलभाग्यजननीं दिव्याम्बरालंकृतां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५ ॥
 
लावण्याधिक भूषिताङ्गलतिकां लाक्षालसद्रागिणीं
सेवायात समस्तदेववनितां सीमन्तभूषान्विताम् ।
भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६ ॥
 
धन्यां सोमविभावनीयचरितां धाराधरश्यामलां
 
मुन्याराधनमेधिनीं सुमवतां मुक्तिप्रदानत्रताम् ।
कन्यापूजन सुप्रसन्नहृदयां काथ्वीलसन्मध्यमां
 
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७ ॥