2026-02-28 20:23:40 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<p>॥ श्रीः ॥
॥ भ्रमराम्बाष्टकम् ॥
*
-
</p>
<verse>चाञ्चल्यारुणलोचनाश्ञ्चितकृपाचन्द्रार्कचूडामणिं
चारुस्मेरमुखां चराचरजगत्संरक्षणीं तत्पदाम् ।
चश्
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥
</verse>
<verse>कस्तूरी तिलकाञ्चितेन्दु विलसत्प्रोद्भासि फालस्थलीं
कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् ।
लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २ ॥
</verse>
<verse>राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां
राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् ।
राजीवायतमन्दमण्डितकुचां राजाधिराजेश्वरीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३ ॥
</verse>
</page>
<p>॥ श्रीः ॥
॥ भ्रमराम्बाष्टकम् ॥
*
-
<verse>चाञ्चल्यारुणलोचना
चारुस्मेरमुखां चराचरजगत्संरक्षणीं तत्पदाम् ।
चश्
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥
<verse>कस्तूरी