This page has not been fully proofread.

॥ श्रीः ॥
 
॥ भ्रमराम्बाष्टकम् ॥
 
*
 
-
 
चाञ्चल्यारुणलोचनाश्चितकृपाचन्द्रार्कचूडामणिं
 
चारुस्मेरमुखां चराचरजगत्संरक्षणीं तत्पदाम् ।
चश्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
 
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥
 
कस्तूरी तिलकाञ्चितेन्दु विलसत्प्रोद्भासि फालस्थलीं
 
कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् ।
लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
 
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २ ॥
 
राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां
 
राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् ।
 
राजीवायतमन्दमण्डितकुचां राजाधिराजेश्वरीं
 
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३ ॥