This page has not been fully proofread.

११६
 
जगन्नाथाष्टकम् ।
 
हर त्वं संसारं द्रुततरमसारं सुरपते
 
हर त्वं पापानां विततिमपरां यादवपते ।
अहो दीनानाथं निहितमचलं पातुमनिशं
 
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
 
जगन्नाथाष्टकं संपूर्णम् ॥