2026-02-28 06:50:47 by ambuda-bot
This page has not been fully proofread.
॥ श्रीः ॥
॥ प्रातःस्मरणस्तोत्रम् ॥
*
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंसगतिं तुरीयम् ।
यस्तु प्रजागरसुषुप्तमवैति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥ १ ॥
प्रातर्भजामि मनसां वचसामगम्यं
वाचो विभान्ति निखिला यदनुग्रहेण ।
यत्रेति नेति वचनैर्निंगमा अवोचं-
स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २ ॥
प्रातर्नमामि तमसः परमर्कवर्ण
पूर्ण सनातनपदं पुरुषोत्तमाख्यम् ।
यस्मिन्निदं जगदशेषमशेषमूर्ती
रज्ज्वां भुजंगम इव प्रतिभासितं वै ॥ ३ ॥
॥ प्रातःस्मरणस्तोत्रम् ॥
*
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंसगतिं तुरीयम् ।
यस्तु प्रजागरसुषुप्तमवैति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥ १ ॥
प्रातर्भजामि मनसां वचसामगम्यं
वाचो विभान्ति निखिला यदनुग्रहेण ।
यत्रेति नेति वचनैर्निंगमा अवोचं-
स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २ ॥
प्रातर्नमामि तमसः परमर्कवर्ण
पूर्ण सनातनपदं पुरुषोत्तमाख्यम् ।
यस्मिन्निदं जगदशेषमशेषमूर्ती
रज्ज्वां भुजंगम इव प्रतिभासितं वै ॥ ३ ॥