This page has been fully proofread once and needs a second look.

<page>
<ignore>
निर्गुणमानसपूजा ।
 
</ignore>
<verse>
ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः ।

समस्तभ्रान्तिविक्षेप राहित्येनात्मनिष्ठता ॥ ३० ॥
 
</verse>
<verse>
समाधिरात्मनो नाम नान्यश्च्चित्तस्य विभ्रमः ॥

तत्रैव ब्रह्मणि सदा चित्तविश्रान्तिरिष्यते ॥ ३१ ॥
 
</verse>
<verse>
एवं वेदान्तकल्पोक्तस्वात्मलिङ्गप्रपूजनम् ।

कुर्वन्ना मरणं वापि क्षणं वा सुसमाहितः ॥ ३२ ॥
 
</verse>
<verse>
सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् ।

विधूयांज्ञानदुःखौघं मोक्षानन्दं समश्नुते ॥ ३३ ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 

श्रीमच्छंकरभगवतः कृतौ
 

निर्गुणमानसपूजा संपूर्णा ॥ :,
 
3
</trailer>
</pa
g
 
१११.
 
e>