This page has not been fully proofread.

१·१.०
 
निर्गुणुमानसपूजां । ।
 
अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणी ।
 
3
 
विशुद्धस्यात्मलिङ्गस्य हस्तप्रक्षालनं स्मरेत् ॥ २२ ॥
 
रागादिगुणशून्यस्य शिवस्य परमात्मनः ।
सरागविषयाभ्यासत्यागस्ताम्बूलचर्वणम् ॥ २३ ॥ ..
 
अज्ञानध्वान्तविध्वंसप्रचण्डमतिभास्करम् ।
 
आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ २४ ॥
 
विविधब्रह्मसंदृष्टिर्मालिकाभिरलंकृतम्
 

 
पूर्णानन्दात्मतादृष्टिं पुष्पाञ्जलिमनुस्मरेत् ॥ २५ ॥
 
परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीश्वरे दिन
कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम् ॥ २६ ॥
 
विश्ववन्द्योऽहमेवास्मि नास्ति वन्द्यो मदन्यतः
इत्यालोचनमेवात्र स्वात्मलिङ्गस्य वन्दनम् ॥ २७ ॥
 
आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना
नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम् ॥ २८ ॥ .
 
श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम् ।
 
मननं त्वात्मलिङ्गस्य मह्तव्याभावचिन्तनम् ॥ २९ ॥