2026-02-28 20:04:57 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>निर्गुणमानसपूजा ।
</ignore>
<ignore>१०९</ignore>
<verse>ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ १४ ॥
१०९
</verse>
<verse>निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम् ।
आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५ ॥
</verse>
<verse>त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ १६ ॥
</verse>
<verse>अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया ।
नान्येनेत्यनुसंधानमात्मनश्चन्दनं भवेत् ॥ १७ ॥
</verse>
<verse>रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः: ।
।
आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८ ॥
</verse>
<verse>ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ १९ ॥
</verse>
<verse>समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् ।
ज्योतिर्मयात्मविज्ञानं दीपं संदर्शयेद्बुधः ॥ २० ॥
</verse>
<verse>नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् ।
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ २१ ॥
</verse>
</page>
<ignore>निर्गुणमानसपूजा ।
<ignore>१०९</ignore>
<verse>ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ १४ ॥
१०९
<verse>निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम् ।
आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५ ॥
<verse>त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ १६ ॥
<verse>अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया ।
नान्येनेत्यनुसंधानमात्मनश्चन्दनं भवेत् ॥ १७ ॥
<verse>रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः