This page has not been fully proofread.

निर्गुणमानसपूजा ।
 
ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः ।
 
अच्छेयोऽयमिति ध्यानमभिषेचनमात्मनः ॥ १४ ॥
 
१०९
 
निरावरणचैतन्यं प्रकाशोऽस्मीति चिन्तनम् ।
आत्मलिङ्गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः ॥ १५ ॥
 
त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
 
इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ १६ ॥
 
अनेकवासनामिश्रप्रपञ्चोऽयं धृतो मया ।
नान्येनेत्यनुसंधानमात्मनश्चन्दनं भवेत् ॥ १७ ॥
 
रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः : ।
 
आत्मलिङ्गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ १८ ॥
 
ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
बिल्वपत्रैरद्वितीयैरात्मलिङ्गं यजेच्छिवम् ॥ १९ ॥
 
समस्तवासनात्यागं धूपं तस्य विचिन्तयेत् ।
ज्योतिर्मयात्मविज्ञानं दीपं संदर्शयेद्बुधः ॥ २० ॥
 
नैवेद्यमात्मलिङ्गस्य ब्रह्माण्डाख्यं महोदनम् ।
 
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम् ॥ २१ ॥