2026-02-28 06:50:46 by ambuda-bot
This page has not been fully proofread.
१०८
निर्गुणमानसपूजा ।
गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
प्रदक्षिणमनन्तस्य प्रमाणोऽद्वयवस्तुनः ॥ ७ ॥
वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥ ८ ॥
श्रीगुरुरुवाच-
आराधयामि मणिसंनिभमात्मलिङ्गं
मायापुरीहृदयपङ्कजसंनिविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकै-
नित्यं समाधिकुसुमैरपुनर्भवाय ॥ ९ ॥
अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् ।
आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥ १० ॥
पुण्यपापरजःसङ्गो मम नास्तीति वेदनम् ।
पाद्यं समर्पयेद्विद्वान्सर्वकल्मषनाशनम् ॥ ११ ॥
अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् ।
विसृजेदात्मलिङ्गस्य तदेवार्घ्यसमर्पणम् ॥ १२ ॥
ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् ।
पिवन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥ १३ ॥