2026-02-28 06:50:46 by ambuda-bot
This page has not been fully proofread.
॥ श्रीः ॥
॥ निर्गुणमानसपूजा ॥
शिष्य उवाच --
अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
:
स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥ १ ॥
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमंर्घ्यं च शुद्धस्याचमनं कुतः ॥ २ ॥
निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ ३ ॥
निर्लेपस्य कुतो गन्ध: पुष्पं निर्वासनस्य च ।
निर्विशेषस्य का भूषा कोऽलंकारो निराकृतेः ॥ ४ ॥
निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५ ।
विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते ।
स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ ६ ॥